कोहं ?
நான் யார்
॥ हृदय कमलवासिने श्रीमतेरमणाय नमः ॥
--
आमुखं
--
भूमण्डलहृदयात्मके स्मरणान्मुक्तिदेऽस्मिन्नरुणाचल दिव्य क्षेत्रे विरूपाक्ष गुहायां भगवतः श्रीरमणस्यात्यद्भुत कठिन मौन तपस्समाधियोगेन स्वनिकटमाकृष्टेषु बहुषुजनेष्वन्यतमेन शिवप्रकाशं पिळ्ळै नामकेन केनचिद्भक्तेन 1901-1902 क्रिस्तुशकाब्दे महर्षीनभिगम्य मम तत्वोपदेशेनानुग्रहः कर्तव्य इति भक्ति श्रद्धा विनयादि पुरस्सरं प्रार्थनां कृत्वा परिपृष्टानां प्रश्नानां, तदा तदा मौनिना महर्षिणा द्राविड भाषायां लिखित्वा दत्तमुत्तर मिदं प्रश्नोत्तराकारं केरळादि नाना देश भाषानूदितमपीदानीं गीर्वाणा वाण्यामनूद्यमानं विजयतेतमां ।
॥शुभं ॥
--
॥ॐ नमो भगवते श्रीमते रमणाय ॥
1.
- कोहं -
--
सर्वेषामपि जीवानां दुःखानुषंगं विनाऽऽत्यन्तिक सुखित्वकामनाय् स्सत्वेन, सर्वेषां स्वस्मिन्परमप्रेम्णो विद्यमानात्वेनच, प्रेम्णश्च सुख निदानत्वेन, मनोविहीनायां निद्रायां दिने दिने स्वयमनुभूयमानं स्व स्वाभाविकं तत्सुखमुपलब्धुं स्वेन स्वस्य ज्ञानमावश्यकम् । तस्य ’कोह’मिति विचार एव मुख्यं साधनम् ।
प्रश्नः -1 ॥कोहं ?
उत्तरम् ॥ सप्तधातुभिर्निष्पन्नोऽयं स्थूलदेहो नाहं । शब्द स्पर्श रूप रस गन्धाख्यान्पञ्चविषयान्पृथक्पृथग्विजानन्ति श्रोत्रत्वङ्नेत्र जिह्वाघ्राणाख्यानि ज्ञानेन्द्रियाणि पञ्चापि नाहं । वचनगमनादानविसर्गानन्दाख्य पञ्चकृत्यकरणानि वाक्पादपाणिपायूपस्थरूपाणि पञ्चकर्मेन्द्रियाणि च नाहं । श्वासादि पञ्चकार्यकराणि प्राणादयः पञ्चवायवोऽपि नाहं । सङ्कल्पात्मकं मनोऽपि नाहम् । सर्वविषय सर्वकार्यशून्यं, सर्वविषयवासनामात्र वासितमज्ञानमपि नाहं ।
--
2.
प्र - 2. ॥ एतत्सर्वं नाहमितिचेत्तर्हि कोहं ।
उ ॥ एवमेतत्सर्वं नाहमिति नेतिकृत्वाऽवशिष्ट ज्ञप्तिरेवाहं ।
प्र - 3. ॥ ज्ञप्तेस्स्वरूपं किं ?
उ ॥ ज्ञप्तेस्स्वरूपं सच्चिदानन्दं ।
प्र - 4. ॥ स्वरूपदर्शनं कदानुलभ्येत ?
उ ॥ दृश्ये जगति निवारिते दृग्स्वरूपदर्शनं जायेत ।
प्र -5. ॥ दृश्ये जगति (प्रतिभासमाने) सति स्वरूपदर्शनं न जायेत किन्नु ?
उ ॥ न जायेत ।
प्र -6. ॥ कुतः ?
उ ॥ दृक्, दृश्यंच रज्जुवत्सर्पवच्च भवति । कल्पित सर्पज्ञानविनाशाभावे तदधिष्ठान रज्जुज्ञानं यथा नोदेति, तथा कल्पित जगद्दृष्टि विनाशाभावे तदधिष्ठान स्वरूपदर्शनं न जायेत ।
प्र - 7. ॥ दृश्यं जगत्कदा विनष्टं स्यात् ?
उ ॥ सर्वविज्ञानानां, सर्वकार्याणांच साधारण कारणे मनसि लीने जगल्लीनं स्यात् ।
--
3.
--
प्र - 8. ॥ मनस्स्वरूपं किं तर्हि ?
उ ॥ आत्मस्वरूपनिष्ठा काचनातिशयितशक्तिरेव मन इत्येतन्नाम । तदेव सकलस्मरणान्यपि जनयति । सर्वाण्यपि स्मरणानि निषिध्य निरोधे कृते न पृथङ्मनसस्स्वरूपं किञ्चिदुपलभ्यते । ततश्च स्मरणमेव मनसस्वरूपं । स्मरणानि विहाय नान्यत्किचिज्जगत्तत्त्वमस्ति । निद्रायां स्मरणं नास्ति जगदपि नास्ति । जाग्रत्स्वप्नयोस्स्मरणानि सन्ति, जगदप्यास्ते । यथोर्णनाभिस्स्वस्मात्तन्तून्बहिरुद्भाव्य स्वस्मिन्नेव पुनरपि समाकर्षयति, तथा मनोपि स्वस्माज्जगदुद्भाव्य स्वस्मिन्नेव पुनरपि विलापयति । मनस्स्वात्मनो यदा बहिर्मुखं भवति, तदा जगद्भायात् । स्वरूपे भाति सति न जगद्भायात् । मनसस्स्वरूपे क्रमेण विचार्यमाणे, मनः स्वं भवति । स्वमात्मस्वरूपमेव । मनश्च स्थूल किञ्चित्सततमवलंब्यैवं तिष्ठेत् । नानवलंब्य पृथक्तिष्ठेत् । मन एव सूक्ष्मशरीरमिति, जीव इति च व्यवह्रियते ।
प्र - 9. ॥ मनसस्स्वरूपं विचार्य विज्ञातुं को वा मार्गः ?
--
4.
--
देहेऽस्मि ’न्नहमिति’ यदुत्तिष्ठति, तदेव मनः । अहमिति स्मृतिश्च देहेऽस्मिन् क्व नु विभासत इति विमार्गिते "हृदय" इति प्रत्यवभासेत । तदेव मनसो जन्मस्थानं । "अहं", "अहं’ इत्यावृत्तिमात्रे कृतेपि तत्रैवा (हृदय एव) न्ततः प्राप्तिस्स्यात् । मनसि जायमानानां सर्वेषामपि सङ्कल्पानां अहमिति सङ्कल्प एव प्रथमस्सङ्कल्पः । प्रथमं मनस्सङ्कल्पे जात एवान्ये सङ्कल्पास्समुजृंभन्ते । उत्तमपुरुषो (अहमि) द्भवानन्तरं हि प्रथम मध्यमौ विज्ञायेते । उत्तमपुरुषंविना प्रथम मध्यमौ नैव भवतः ।
प्र -10. ॥ मनः कथं विलीयेत ?
उ ॥ "कोहमिति" निरन्तर विचारणेनैव मनो विलीयेत । अहं क इति स्मृतिः स्वेतरस्मृतीः प्रविलाप्य शवदाहकदण्डवत्स्वयमप्यन्ततो विलीयते । ततश्च स्वरूपदर्शनं भवेत् ।
प्र -11. ॥ "कोहमिति" विचारं सर्वदावलंबितुमुपायः कः ?
उ ॥ बाह्यसङ्कल्पेषुजातेषु, तान्परिपूरयितुमप्रयतमान एव "एते सङ्कल्पाः कस्योदिता" इति विचारं कुर्यात् । जायन्तां नाम कियन्तोवा सङ्कल्पाः । एकैकस्मिन्सङ्कल्पे समुद्भूते,
--
5.
--
तत्कालएव "कस्यायमुद्भूत" इति सावधानं यदि विचार्यते, तदा "ममेति" प्रतिभासेत । "अहंक" इतिविचारितेच मनस्स्वजन्मस्थानं प्रत्यावर्तेत । अनवरतमेवमभ्यासे कृते, तत्पाटवेन मनसस्स्वजन्मस्थानएव चिरकालावस्थितिशक्तिरभिवर्द्धेत । सूक्ष्ममिदं मनोबुद्धीन्द्रियद्वारा बहिर्मुखीभवति चेत्, स्थूलानीमानि नामरूपाणिजानाति । हृदय एव प्रत्यवतिष्ठते यदि, तदा नामरूपाणि न जानाति । बहिर्मुखविषयप्रवृत्तेर्मनः प्रत्यावृत्य हृदयावस्थापनमेव "अहंमुख"मिति "अन्तर्मुख"मिति च गीयते । हृदयाद्बहिःप्रवृत्तिरेव "बहिर्मुख"मित्युच्यते । एवं मनसि हृदय प्रतिष्ठिते सति सकल सङ्कल्पविकल्पकारणमहं विलीनं सत्सार्वदिक स्वस्वरूपमात्रं प्रकाशेत । सर्वमपि कार्यमहङ्कारं परित्यज्य कुर्यात् । तथाकृते सर्वमपि शिवस्वरूपं भासेत ।
प्र -12. ॥ मनोनिग्रहार्थमन्य उपायाः किं न सन्ति ?
उ ॥ मनोनिरोधे विचारं विना नान्ये समुचितास्सन्त्युपायाः । उपायान्तरावलंबनेन मनो निग्रहाय प्रवृत्तौ, मनो निगृहीतमिव भूत्वा पुनरपि बहिरुद्भवेत् । प्राणायामेनापि
--
6.
--
मनो निरुद्धं भवति । किन्तु प्राणरोधो यावत्कालं भवति तावत्कालपर्यन्तं मनो निरुद्धमिव भूत्वा, प्राणे (निरोधावस्थां विहाय) बहिः प्रवृत्ते स्वयमपि बहिर्मुखीभूय वासनावशान्मनोपि ततस्ततो धावेत् । मनसः प्राणस्य च जन्मस्थानमेकमेव । मनसस्सङ्कल्पनमेव स्वरूपं । "अह"मिति सङ्कल्पनमेव मनसः प्रथमः सङ्कल्पः । तदेवाहङ्कारो नाम । अहङ्कारश्च यतो निष्पद्यते, तत एव प्राणोपि निष्पद्यते । ततश्च मनसि निगृहीते प्राणः, प्राणे प्रगृहीते मनश्च विलीयते । परन्तु सुषुप्तौ मनसि प्रलीनेपि प्राणो न प्रलीयते । देहसंरक्षणनिमित्तं "मृतोवायंदेह" इति मध्यस्थ शङ्का-व्यवच्छेदनार्थं चैवं प्राणजागरणमीश्वरनियतिसिद्धं विजयते । जाग्रति, समाधौ च विलीनावस्थे मनसि, प्राणोपि विलीयते । मनसस्स्थूलरूपमेव प्राण इति भवति । आप्रायणाच्छरीरे प्राणमवस्थाप्य प्रायणसमये मन एव प्राणमाकृष्य गच्छति । तस्मात्प्राणस्पन्दनिरोधो मनोलयोपायो भवन्नपि न तन्नाशोपायो भवति । प्राणायाम इव मूर्तिध्यान-मन्त्रजपाहारनियमाद्याश्च मनोनिरोधे साहाय्यमात्रं कुर्वन्ति । मूर्तिध्यानेन, मन्त्रजपेन च मन एकाग्रतामश्नुते । मनश्च
--
7.
--
सदा चञ्चलस्वभावमेव वर्तते । वेतण्डस्य शुण्डादण्डे समर्पितायां शृङ्खलायां स च यथा तामेवान्यद्वस्तु विहायावलम्बमानो गच्छति, तथा मनोपि किञ्चिन्नामरूपं चिराभ्यासगोचरितमेवावलंबेत । अनवधिकासंख्येय सङ्कल्पविकल्पादिवृत्तिभेदैर्मनसो विकासप्राप्तौ एकैकस्यास्सङ्कल्पव्यक्तेर्दौर्बल्यं, नैष्फल्यं च भवति । सङ्कल्पेषु क्रमेणोपशमं प्रापितेष्वेकाग्रतासिद्धिद्वारा प्राबल्यं प्राप्तस्य मनसस्स्वात्मविचारसिद्धिरतिसुलभा भवति । सकलनियमश्रेष्ठेन हितमितमेध्याशननियमेनोद्भूत सत्वगुणभूयिष्ठं मन एवात्मविचारान्तरंगसाधनं भवतीति सोपि साहाय्यमश्नुते ।
प्र -13. ॥ विषयवासनाजनितास्सङ्कल्पाः समुद्रोच्चलत्तुंगतरंगभंगा इव सनातनं हि सम्भवन्ति ! ते च कथंवा कदावा प्रशमं प्राप्नुयुः ?
उ ॥ पटुतम स्वस्वरूपध्याने क्रमेणोदिते ते सर्वे विनश्येयुः ।
प्र - 14. ॥ अनादिकालागताखिलविषय वासनास्स्वस्मिन्प्रविलाप्य केवल स्वरूपमात्रतयावस्थानं संभवति वा ?
उ ॥ स्वरूपमात्रावस्थितिस्संभवति वा न वेति सन्देहात्मक सङ्कल्पस्याप्यवकाशमप्रदाय स्वस्वरूपानुसन्धानमेव सुदृढतया हठादवलंबनीयं । अपिचेत्सुदुराचाररतः पापी कश्चि
--
8.
--
त्सोपि "अहंपापकारी जातः , कथं वा मोक्षतीरं प्राप्नुया"मिति सन्तापचिन्तां समूलमुन्मूल्य स्वरूपध्यानतत्परो भवति चेन्नूनं कृतकृत्यो मुक्तो भवति । शोभनं मनः , अशोभनं मन इति न मनस्स्वरूपतो द्विविधं वर्तते । एकमेव मनः । किन्तु वासना एव शुभा अशुभा इति द्विविधा भवन्ति । यदि शुभवासनान्वयवशगं मनो भवति तदा शुभमिति अशुभवासनान्वयवशगं यदा तदा तदशुभमिति व्यवह्रियते । प्रपञ्चविषयेषु, अन्य कार्येषु च न मनः प्रचोदयात् । अन्येषां दुस्स्वस्भावत्वेऽपि तेषु द्वेषो न कार्यः । रागद्वेषावुभावपि हेयौः स्तः । परस्य क्रियमाणस्सर्वोप्युपकार स्स्वस्यैव क्रियमाणो भवति । एतत्तत्वं ज्ञायते यदि, कोवान्यस्मै नोपकर्तुं प्रयतेत । अहम्युद्भूते सर्वमप्युद्भवति अहम्युपशान्ते सर्वमप्युपशाम्यति । यावद्याद्विनयेन सञ्चरामस्स्तावत्तावत्साधु भवति । मन उपशान्तिश्चेदाप्यते यत्रकुत्र वा निवासो न विरुद्धो भवति ।
प्र -15. ॥ विचारणा कियदवधि कर्तव्या ?
उ ॥ मनसि यावदवधि विषयवासना वसन्ति, तावत्कालपर्यन्तं "कोह"मिति विचारणानुसर्तव्या । यदा यदा विषयवासनाः प्रस्फुरन्ति तदा तदा तदुत्पत्तिस्थान एव विचारेण
--
9.
--
विनाशं ताः प्रापणीयाः । यावत्स्वरूपमुपलभ्यते तावन्निरन्तरं स्वरूपस्मरणमेव कर्तव्यं । तदेवालं । प्राकारप्रविष्टाश्शत्रवो यावदन्तर्वसन्ति तावत्ततो बहिरागच्छन्ति; बहिरागताश्चते यदि छिद्यन्ते, तदा सालस्स्ववशो भवितुमर्हति । ।
प्र - 16. ॥ स्वरूपस्य कस्स्वभावः ?
उ ॥ आत्मस्वरूप एक एव यथार्थभूतः । जगज्जीवेश्वराश्शुक्ताविव रजतं तत्रकल्पिताः । जगज्जीवेश्वरत्रयमेतदेकस्मिन्नेवकाल उद्भूय, एकस्मिन्नेवसमये तिरोभवति । अहमतिधीः किञ्चिदपि यत्र नास्ति, तदेवस्थानं स्वरूपमुच्यते । तदेव "मौन"मितिचाभिधीयते । स्वरूपमेव जगत् । स्वरूपमेवाहं । स्वरूपमेवेश्वरः । सर्वं खल्विदं शिवस्वरूपमेव ।
प्र - 17. ॥ सर्वमिदमीशाधीनं ननु ?
उ ॥ इच्छा सङ्कल्प प्रयत्नमन्तरा समयाद्द्युषिते सवितरि तत्सन्निधिमात्रेणायस्कान्तस्यानलोद्वमनं, तामरस-कुसुमस्य विकासः, सलिलानां संशोषणं, लौकिकानां सर्वेषामपिजनानां स्वस्वकार्येषु प्रवृत्तिः, कान्तोपलसन्निधौ सूचिकाचेष्टाच यथा भवति, तथा ईशस्यविशेषमात्रेण प्रवृतस्य सृष्ट्यादिकृत्यत्रयस्यवा, पञ्चकृत्यस्यवा जीवाः परवशी भूयस्व
--
10.
--
स्वकर्मानुसारेण चेष्टित्वा विनिवर्तन्ते । किन्तु स ईश्वरसङ्कल्पसहितो न भवति । न च तानि सृष्ट्यादि कर्माणि तं लिंपन्ति । यथा सूर्यंलोककृतानि कर्माणि न लिंपन्ति, यथावा चतुर्भूतगुणा आकाशं न समवयन्ते तादृगेवैतत् ।
प्र -18 - ॥ भक्तेषु कोवा भक्तो विशिष्यते ?
उ ॥ यः खलु स्वात्मानमेव भगवति स्वमहिम्नि स्वरूपे समर्पयति, स एव विशिष्टो भक्तिमत्सु । आत्मचिन्तातिरिक्तानात्मचिन्तायाः किञ्चिदप्यन्तरमप्रदायात्मनिष्ठातत्परतैव भगवति स्वात्मसमर्पणं नाम । भगवति समर्पितं सर्वमपि भरन्यासं स च संवहति । पारमेश्वरी काचनशक्तिः कार्यजातं सर्वं निर्वहति । तत्र भरन्यासपुरस्सरं तदधीनतास्थितिं विहाय "एवं कर्तव्यं, मनेवं कर्तव्यं" इत्येवं नस्सन्ततचिन्तयाकिं ? धूमशकटे सकलभारवाहिनि ज्ञातेसति तदारूह्यगच्छद्भिरस्माभिस्स्वकीयमल्पमपिमूतं तत्रैव प्रक्षिप्य सुखेनावस्थातुमशक्नुवद्भिस्तन्मूत तत्रापि स्वशिरसि समुदूह्य किमर्थं दुःखमनुभोक्तव्यं ?
प्र - 19. ॥ वैराग्यं नाम किं ?
उ ॥ सर्वेषामपि सङ्कल्पानामुत्पत्तिस्थानएवाऽऽत्य
--
11.
--
न्तिकविनाशसंपादनमेव वैराग्यं भवति । जलधिजठरगतं मुक्ताफलंगृहीतुं, कटितटे किमपि शिलाखण्डं समाबद्ध्य, जलधिजठरमनुप्रविश्य, यथा लोके तदुपलभ्यते, तथा मुमुक्षवोपि वैराग्यादिसाधनसंपत्त्या स्वयमेव स्वान्तरमनुप्रविश्य स्वात्ममुक्ताफलमुपलभेरन् ।
प्र - 20 ॥ ईश्वरेण गुरुणा जीवा मोचयितुं शक्यन्ते वा ?
उ ॥ ईश्वरो गुरुश्च मोक्षोपयोगमार्गप्रदर्शकावेव । न खलु स्वयमेव जीवान्मोक्षं प्रापयतः । ईश्वरो गुरुश्च न परस्परं वस्तुतो भिन्नौ । व्याघ्रमुखपतितं प्राणिजातं यथा निर्जीवं भवति, तथाऽऽचार्यानुग्रहदृष्टिनिपतितस्सर्वोपिप्राणी, निर्जीवा मृतिभावसंपादनेन संरक्ष्यत एव, न सजीवं परित्यक्ष्यते । सर्वोपि जीवस्स्वेन पौरुषेण प्रयत्नेन सर्वेश्वरेण गुरुणावा संदर्शिते सम्यग्दर्शन्मार्गे सावधानतया प्रवृत्तिं संपाद्य मुक्तिं प्राप्तुमर्हति । स्वेन ज्ञानचक्षुषा स्वमात्मानं स्वेनैव ज्ञातुं शक्यते । न हि रामस्स्वमात्मानं राम इति ज्ञातुमादर्शमन्यमपेक्षते ।
प्र - 21 ॥ मुक्तिकामस्य पुंसः (प्रपञ्च) तत्वविचारोप्यावश्यको वा ?
--
12.
--
यथा दूरतः परित्याज्यस्यावकरनिकरस्य विपरिघट्टनेन न किमपि प्रयोजनं दृश्यते, तथा स्वात्मानं विविदिषुरपि पुमान् स्वात्मस्वरूपवारकानीमानि तत्वानि दूरतोऽपरित्यज्य तानि कियन्ति, तेषां गुणाश्च कीदृश इति तेषां परिगणनेनवा विचारेण न किमपि फलमस्ति । अतश्च प्रपञ्चस्सर्वोपि स्वप्नसमानस्वभाव इति मुमुक्षुभिर्निर्णेतव्यं ।
प्र - 22 ॥ जाग्रतः , स्वप्नस्य च परस्परं भेदो न किं ?
उ ॥ जाग्रद्दीर्घकालं , स्वप्नः क्षणिक इति दीर्घत्व-क्षणिकत्वभेदं विना नान्यो भेदोस्ति । जाग्रतिजाता व्यवहारा यथा सत्याः प्रकाशन्ते, तथैव स्वप्नेऽनुभूयमानास्सर्वे व्यवहाराश्च तत्काले सत्या स्संदृश्यन्ते । किन्तु स्वप्ने जाग्रद्देहभिन्नं देहं मनोगृह्णाति । जाग्रत्स्वप्नयोर्द्वयोरपि विज्ञानानि, ज्ञेयनामरूपाणि च युगपदाविर्भवन्ति ।
प्र - 23 ॥ मुमुक्षूणां शास्त्रपठनेन किमपि प्रयोजनमस्ति वा ?
उ ॥ शास्त्रेषु मुक्तिप्राप्तये मनोनिग्रहस्यैवोपायतयोपदेशेन, "तेषां मनोनिग्रहोपायप्रदर्शन एव परमं तात्पर्य" मिति सिद्धान्ततत्वे (गुरुमुखात्) अवगते सति बहुशास्त्राभ्यास परिश्रमेण न किञ्चिदस्ति प्रयोजनं । स्वमनोनिग्रहार्थं
--
13.
--
स्वयमेवस्वस्मिन्स्वात्मानं "कोह"मिति विचारं विहाय, कथं बहुशास्त्रविचारेण मनोनिग्रहस्सुलभं भवति ? । स्वंस्वेनज्ञानचक्षुषा स्वस्मिन्स्वयमेवह्यवगन्तव्यं । स्वं च पञ्चकोशान्तरवभासते । शास्त्रग्रन्थाश्च पञ्चकोशबाह्यस्था भवन्ति । तस्मात्पञ्चकोशानपि "नेतिनेतीति" निषिध्यान्वेष्टव्यस्स्वात्मा शास्त्रेष्वनेषणेन कथं ज्ञातुं शक्यते ? । अतश्शास्त्रचर्चावृथैव । अभ्यस्तमखिलं शास्त्रमपि कस्मिंश्चित्कालविशेषे विस्मरणीयतामियादेव ।
प्र - 24. ॥ किं सुखं ?
उ ॥ आत्मस्वरूपमेव सुखं भवति । सुखस्यात्मस्वरूपस्य च भेदो नास्ति । प्रपञ्चवस्तुषु कस्मिंश्चिदपि नास्ति सुखलेशोपि । तेभ्यस्सुखं भवतीति वयमविवेकादवगच्छामः । मन आत्मनो बहिरागमनकाले दुःखमनुभवति । अस्मन्मनोरथ परिपूर्तिसमयेषु सर्वेष्वप्यस्माकं मनस्स्वयथास्थानं प्राप्यैवात्मसुखमेवानुभवति । एवमेव सुषुप्ति-समाधि-मूर्छासु, इष्टप्राप्तिसमये, अनिष्टवस्तुवियोगक्षणे च मन अन्तर्मुखं सदात्मसुखमेवानुभवति । एवं मनः आत्मनोबहिरात्मनि च गमनागमनेकुर्वदविश्रान्तं भ्रमति । तरोराधस्ताच्छा
--
14.
--
या सुखकारी भवति । तरोर्बहिः प्रदेशे भानोरूष्मा दुःखकरो भवति । बहिस्सञ्चारी पथिकः कश्चिच्छायामाश्रित्य शीतलीभवति । एवं क्षणं स्थित्वा बहिर्गत्वा सूर्योष्मणा परिश्रान्तः पुनरपि तरुच्छायां प्राप्य सुखमनुभवति । एवं छायातः बहिर्गच्छन्, बाह्याच्छायामागच्छन् पथिको वर्तते । अयमेवं कुर्वाण एवाविवेकीति गीयते । विवेकीतु छायां परित्यज्य बहिरेव न गच्छेत् । एवमेव ज्ञानिनो मनोपि ब्रह्म कदाचिदपि न परित्यजति । अज्ञानिनां मनस्तु बाह्यप्रपञ्चे भ्रामं भ्रामं दुःखमनुभूय, क्षणकालं ब्रह्मप्राप्य सुखंचानुभवति । मन एव जगत् । जगति तिरोहिते विस्मृतिं प्रापिते मनस्स्वानन्दमनुभवति । अ-तिरोहिते (भाति) जगति मनो दुःखमनुभवति ।
प्र - 25. ॥ ज्ञानदृष्टिरित्येतत्किं ?
उ ॥ तूष्णीं स्थितिरेव "ज्ञानदृष्टि"रिति व्यवहारः । मनसस्स्वात्मनि प्रविलापनमेव तूष्णीं भावावस्था । एवं स्थितिरेवज्ञानदृष्टिरित्युच्यते । अन्याभिप्रायाभिज्ञता, त्रिकालज्ञातृत्वं, दूरदेश पदार्थग्रहणमित्येवमादयो न ज्ञानदृष्टि-पद-व्यपदेशा भवितुमर्हन्ति ।
प्र - 26. ॥ निराशाया ज्ञानस्यच कस्संबंधः ?
--
15.
--
निराशैवज्ञानं । निराशाऽन्या, ज्ञानंचान्यदिति न भवति । एतद्द्वयमपि वस्तुत एकमेव । आत्मनोन्यत्र मनसोऽप्रवृत्तिरेव निराशेति निरुच्यते । आत्मनोऽन्यस्य कस्यचिदप्रतिभास एव ज्ञानमिति व्यपदिश्यते । अन्यत्राऽप्रवृत्तिर्वैराग्यमथवा निराशा भवति । स्वस्वरूपापरित्याग एव ज्ञानं ।
प्र - 27. ॥ विचारस्य ध्यानस्य च को भेदः ?
उ ॥ स्वात्मनि मनसो धारणमेव विचारः । स्वात्मनः ब्रह्मेति, सच्चिदानन्दमिति च निरन्तर भावनं ध्यानं भवति ।
प्र - 28. ॥ मुक्तिः का ?
उ ॥ बद्धः, अहं क इति विचारेण स्वयथार्थस्वरूपं विदित्वा तन्निष्ठतैव मुक्तिः ॥
________________________
॥शुभमस्तु ॥
॥श्रीरमणार्पणमस्तु॥
_________________________
वि.जगदीश्वरशास्त्री ॥
8-10-41.
ॐ
॥ॐ नमो भगवते श्रीमते रमणाय ॥
kohaṃ ?
நான் யார்
॥ hṛdaya kamalavāsine śrīmateramaṇāya namaḥ ॥
--
āmukhaṃ
--
bhūmaṇḍalahṛdayātmake smaraṇānmuktide:'sminnaruṇācala divya kṣetre virūpākṣa guhāyāṃ bhagavataḥ śrīramaṇasyātyadbhuta kaṭhina mauna tapassamādhiyogena svanikaṭamākṛṣṭeṣu bahuṣujaneṣvanyatamena śivaprakāśaṃ piḷḷai nāmakena kenacidbhaktena 1901-1902 kristuśakābde maharṣīnabhigamya mama tatvopadeśenānugrahaḥ kartavya iti bhakti śraddhā vinayādi purassaraṃ prārthanāṃ kṛtvā paripṛṣṭānāṃ praśnānāṃ, tadā tadā mauninā maharṣiṇā drāviḍa bhāṣāyāṃ likhitvā dattamuttara midaṃ praśnottarākāraṃ keraḷādi nānā deśa bhāṣānūditamapīdānīṃ gīrvāṇā vāṇyāmanūdyamānaṃ vijayatetamāṃ |
||śubhaṃ ||
--
1.
- kohaṃ -
--
sarveṣāmapi jīvānāṃ duḥkhānuṣaṃgaṃ vinā:':'tyantika sukhitvakāmanāy ssatvena, sarveṣāṃ svasminparamapremṇo vidyamānātvenaca, premṇaśca sukha nidānatvena, manovihīnāyāṃ nidrāyāṃ dine dine svayamanubhūyamānaṃ sva svābhāvikaṃ tatsukhamupalabdhuṃ svena svasya jñānamāvaśyakam | tasya ’koha’miti vicāra eva mukhyaṃ sādhanam |
praśnaḥ -1 ||kohaṃ ?
uttaram || saptadhātubhirniṣpanno:'yaṃ sthūladeho nāhaṃ | śabda sparśa rūpa rasa gandhākhyānpañcaviṣayānpṛthakpṛthagvijānanti śrotratvaṅnetra jihvāghrāṇākhyāni jñānendriyāṇi pañcāpi nāhaṃ | vacanagamanādānavisargānandākhya pañcakṛtyakaraṇāni vākpādapāṇipāyūpastharūpāṇi pañcakarmendriyāṇi ca nāhaṃ | śvāsādi pañcakāryakarāṇi prāṇādayaḥ pañcavāyavo:'pi nāhaṃ | saṅkalpātmakaṃ mano:'pi nāham | sarvaviṣaya sarvakāryaśūnyaṃ, sarvaviṣayavāsanāmātra vāsitamajñānamapi nāhaṃ |
--
2.
pra - 2. || etatsarvaṃ nāhamiticettarhi kohaṃ |
u || evametatsarvaṃ nāhamiti netikṛtvā:'vaśiṣṭa jñaptirevāhaṃ |
pra - 3. || jñaptessvarūpaṃ kiṃ ?
u || jñaptessvarūpaṃ saccidānandaṃ |
pra - 4. || svarūpadarśanaṃ kadānulabhyeta ?
u || dṛśye jagati nivārite dṛgsvarūpadarśanaṃ jāyeta |
pra -5. || dṛśye jagati (pratibhāsamāne) sati svarūpadarśanaṃ na jāyeta kinnu ?
u || na jāyeta |
pra -6. || kutaḥ ?
u || dṛk, dṛśyaṃca rajjuvatsarpavacca bhavati | kalpita sarpajñānavināśābhāve tadadhiṣṭhāna rajjujñānaṃ yathā nodeti, tathā kalpita jagaddṛṣṭi vināśābhāve tadadhiṣṭhāna svarūpadarśanaṃ na jāyeta |
pra - 7. || dṛśyaṃ jagatkadā vinaṣṭaṃ syāt ?
u || sarvavijñānānāṃ, sarvakāryāṇāṃca sādhāraṇa kāraṇe manasi līne jagallīnaṃ syāt |
--
3.
--
pra - 8. || manassvarūpaṃ kiṃ tarhi ?
u || ātmasvarūpaniṣṭhā kācanātiśayitaśaktireva mana ityetannāma | tadeva sakalasmaraṇānyapi janayati | sarvāṇyapi smaraṇāni niṣidhya nirodhe kṛte na pṛthaṅmanasassvarūpaṃ kiñcidupalabhyate | tataśca smaraṇameva manasasvarūpaṃ | smaraṇāni vihāya nānyatkicijjagattattvamasti | nidrāyāṃ smaraṇaṃ nāsti jagadapi nāsti | jāgratsvapnayossmaraṇāni santi, jagadapyāste | yathorṇanābhissvasmāttantūnbahirudbhāvya svasminneva punarapi samākarṣayati, tathā manopi svasmājjagadudbhāvya svasminneva punarapi vilāpayati | manassvātmano yadā bahirmukhaṃ bhavati, tadā jagadbhāyāt | svarūpe bhāti sati na jagadbhāyāt | manasassvarūpe krameṇa vicāryamāṇe, manaḥ svaṃ bhavati | svamātmasvarūpameva | manaśca sthūla kiñcitsatatamavalaṃbyaivaṃ tiṣṭhet | nānavalaṃbya pṛthaktiṣṭhet | mana eva sūkṣmaśarīramiti, jīva iti ca vyavahriyate |
pra - 9. || manasassvarūpaṃ vicārya vijñātuṃ ko vā mārgaḥ ?
--
4.
--
dehe:'smi ’nnahamiti’ yaduttiṣṭhati, tadeva manaḥ | ahamiti smṛtiśca dehe:'smin kva nu vibhāsata iti vimārgite "hṛdaya" iti pratyavabhāseta | tadeva manaso janmasthānaṃ | "ahaṃ", "ahaṃ’ ityāvṛttimātre kṛtepi tatraivā (hṛdaya eva) ntataḥ prāptissyāt | manasi jāyamānānāṃ sarveṣāmapi saṅkalpānāṃ ahamiti saṅkalpa eva prathamassaṅkalpaḥ | prathamaṃ manassaṅkalpe jāta evānye saṅkalpāssamujṛṃbhante | uttamapuruṣo (ahami) dbhavānantaraṃ hi prathama madhyamau vijñāyete | uttamapuruṣaṃvinā prathama madhyamau naiva bhavataḥ |
pra -10. || manaḥ kathaṃ vilīyeta ?
u || "kohamiti" nirantara vicāraṇenaiva mano vilīyeta | ahaṃ ka iti smṛtiḥ svetarasmṛtīḥ pravilāpya śavadāhakadaṇḍavatsvayamapyantato vilīyate | tataśca svarūpadarśanaṃ bhavet |
pra -11. || "kohamiti" vicāraṃ sarvadāvalaṃbitumupāyaḥ kaḥ ?
u || bāhyasaṅkalpeṣujāteṣu, tānparipūrayitumaprayatamāna eva "ete saṅkalpāḥ kasyoditā" iti vicāraṃ kuryāt | jāyantāṃ nāma kiyantovā saṅkalpāḥ | ekaikasminsaṅkalpe samudbhūte,
--
5.
--
tatkālaeva "kasyāyamudbhūta" iti sāvadhānaṃ yadi vicāryate, tadā "mameti" pratibhāseta | "ahaṃka" itivicāriteca manassvajanmasthānaṃ pratyāvarteta | anavaratamevamabhyāse kṛte, tatpāṭavena manasassvajanmasthānaeva cirakālāvasthitiśaktirabhivarddheta | sūkṣmamidaṃ manobuddhīndriyadvārā bahirmukhībhavati cet, sthūlānīmāni nāmarūpāṇijānāti | hṛdaya eva pratyavatiṣṭhate yadi, tadā nāmarūpāṇi na jānāti | bahirmukhaviṣayapravṛttermanaḥ pratyāvṛtya hṛdayāvasthāpanameva "ahaṃmukha"miti "antarmukha"miti ca gīyate | hṛdayādbahiḥpravṛttireva "bahirmukha"mityucyate | evaṃ manasi hṛdaya pratiṣṭhite sati sakala saṅkalpavikalpakāraṇamahaṃ vilīnaṃ satsārvadika svasvarūpamātraṃ prakāśeta | sarvamapi kāryamahaṅkāraṃ parityajya kuryāt | tathākṛte sarvamapi śivasvarūpaṃ bhāseta |
pra -12. || manonigrahārthamanya upāyāḥ kiṃ na santi ?
u || manonirodhe vicāraṃ vinā nānye samucitāssantyupāyāḥ | upāyāntarāvalaṃbanena mano nigrahāya pravṛttau, mano nigṛhītamiva bhūtvā punarapi bahirudbhavet | prāṇāyāmenāpi
--
6.
--
mano niruddhaṃ bhavati | kintu prāṇarodho yāvatkālaṃ bhavati tāvatkālaparyantaṃ mano niruddhamiva bhūtvā, prāṇe (nirodhāvasthāṃ vihāya) bahiḥ pravṛtte svayamapi bahirmukhībhūya vāsanāvaśānmanopi tatastato dhāvet | manasaḥ prāṇasya ca janmasthānamekameva | manasassaṅkalpanameva svarūpaṃ | "aha"miti saṅkalpanameva manasaḥ prathamaḥ saṅkalpaḥ | tadevāhaṅkāro nāma | ahaṅkāraśca yato niṣpadyate, tata eva prāṇopi niṣpadyate | tataśca manasi nigṛhīte prāṇaḥ, prāṇe pragṛhīte manaśca vilīyate | parantu suṣuptau manasi pralīnepi prāṇo na pralīyate | dehasaṃrakṣaṇanimittaṃ "mṛtovāyaṃdeha" iti madhyastha śaṅkā-vyavacchedanārthaṃ caivaṃ prāṇajāgaraṇamīśvaraniyatisiddhaṃ vijayate | jāgrati, samādhau ca vilīnāvasthe manasi, prāṇopi vilīyate | manasassthūlarūpameva prāṇa iti bhavati | āprāyaṇāccharīre prāṇamavasthāpya prāyaṇasamaye mana eva prāṇamākṛṣya gacchati | tasmātprāṇaspandanirodho manolayopāyo bhavannapi na tannāśopāyo bhavati | prāṇāyāma iva mūrtidhyāna-mantrajapāhāraniyamādyāśca manonirodhe sāhāyyamātraṃ kurvanti | mūrtidhyānena, mantrajapena ca mana ekāgratāmaśnute | manaśca
--
7.
--
sadā cañcalasvabhāvameva vartate | vetaṇḍasya śuṇḍādaṇḍe samarpitāyāṃ śṛṅkhalāyāṃ sa ca yathā tāmevānyadvastu vihāyāvalambamāno gacchati, tathā manopi kiñcinnāmarūpaṃ cirābhyāsagocaritamevāvalaṃbeta | anavadhikāsaṃkhyeya saṅkalpavikalpādivṛttibhedairmanaso vikāsaprāptau ekaikasyāssaṅkalpavyakterdaurbalyaṃ, naiṣphalyaṃ ca bhavati | saṅkalpeṣu krameṇopaśamaṃ prāpiteṣvekāgratāsiddhidvārā prābalyaṃ prāptasya manasassvātmavicārasiddhiratisulabhā bhavati | sakalaniyamaśreṣṭhena hitamitamedhyāśananiyamenodbhūta satvaguṇabhūyiṣṭhaṃ mana evātmavicārāntaraṃgasādhanaṃ bhavatīti sopi sāhāyyamaśnute |
pra -13. || viṣayavāsanājanitāssaṅkalpāḥ samudroccalattuṃgataraṃgabhaṃgā iva sanātanaṃ hi sambhavanti ! te ca kathaṃvā kadāvā praśamaṃ prāpnuyuḥ ?
u || paṭutama svasvarūpadhyāne krameṇodite te sarve vinaśyeyuḥ |
pra - 14. || anādikālāgatākhilaviṣaya vāsanāssvasminpravilāpya kevala svarūpamātratayāvasthānaṃ saṃbhavati vā ?
u || svarūpamātrāvasthitissaṃbhavati vā na veti sandehātmaka saṅkalpasyāpyavakāśamapradāya svasvarūpānusandhānameva sudṛḍhatayā haṭhādavalaṃbanīyaṃ | apicetsudurācārarataḥ pāpī kaści
--
8.
--
tsopi "ahaṃpāpakārī jātaḥ , kathaṃ vā mokṣatīraṃ prāpnuyā"miti santāpacintāṃ samūlamunmūlya svarūpadhyānatatparo bhavati cennūnaṃ kṛtakṛtyo mukto bhavati | śobhanaṃ manaḥ , aśobhanaṃ mana iti na manassvarūpato dvividhaṃ vartate | ekameva manaḥ | kintu vāsanā eva śubhā aśubhā iti dvividhā bhavanti | yadi śubhavāsanānvayavaśagaṃ mano bhavati tadā śubhamiti aśubhavāsanānvayavaśagaṃ yadā tadā tadaśubhamiti vyavahriyate | prapañcaviṣayeṣu, anya kāryeṣu ca na manaḥ pracodayāt | anyeṣāṃ dussvasbhāvatve:'pi teṣu dveṣo na kāryaḥ | rāgadveṣāvubhāvapi heyauḥ staḥ | parasya kriyamāṇassarvopyupakāra ssvasyaiva kriyamāṇo bhavati | etattatvaṃ jñāyate yadi, kovānyasmai nopakartuṃ prayateta | ahamyudbhūte sarvamapyudbhavati ahamyupaśānte sarvamapyupaśāmyati | yāvadyādvinayena sañcarāmasstāvattāvatsādhu bhavati | mana upaśāntiścedāpyate yatrakutra vā nivāso na viruddho bhavati |
pra -15. || vicāraṇā kiyadavadhi kartavyā ?
u || manasi yāvadavadhi viṣayavāsanā vasanti, tāvatkālaparyantaṃ "koha"miti vicāraṇānusartavyā | yadā yadā viṣayavāsanāḥ prasphuranti tadā tadā tadutpattisthāna eva vicāreṇa
--
9.
--
vināśaṃ tāḥ prāpaṇīyāḥ | yāvatsvarūpamupalabhyate tāvannirantaraṃ svarūpasmaraṇameva kartavyaṃ | tadevālaṃ | prākārapraviṣṭāśśatravo yāvadantarvasanti tāvattato bahirāgacchanti; bahirāgatāścate yadi chidyante, tadā sālassvavaśo bhavitumarhati | |
pra - 16. || svarūpasya kassvabhāvaḥ ?
u || ātmasvarūpa eka eva yathārthabhūtaḥ | jagajjīveśvarāśśuktāviva rajataṃ tatrakalpitāḥ | jagajjīveśvaratrayametadekasminnevakāla udbhūya, ekasminnevasamaye tirobhavati | ahamatidhīḥ kiñcidapi yatra nāsti, tadevasthānaṃ svarūpamucyate | tadeva "mauna"miticābhidhīyate | svarūpameva jagat | svarūpamevāhaṃ | svarūpameveśvaraḥ | sarvaṃ khalvidaṃ śivasvarūpameva |
pra - 17. || sarvamidamīśādhīnaṃ nanu ?
u || icchā saṅkalpa prayatnamantarā samayāddyuṣite savitari tatsannidhimātreṇāyaskāntasyānalodvamanaṃ, tāmarasa-kusumasya vikāsaḥ, salilānāṃ saṃśoṣaṇaṃ, laukikānāṃ sarveṣāmapijanānāṃ svasvakāryeṣu pravṛttiḥ, kāntopalasannidhau sūcikāceṣṭāca yathā bhavati, tathā īśasyaviśeṣamātreṇa pravṛtasya sṛṣṭyādikṛtyatrayasyavā, pañcakṛtyasyavā jīvāḥ paravaśī bhūyasva
--
10.
--
svakarmānusāreṇa ceṣṭitvā vinivartante | kintu sa īśvarasaṅkalpasahito na bhavati | na ca tāni sṛṣṭyādi karmāṇi taṃ liṃpanti | yathā sūryaṃlokakṛtāni karmāṇi na liṃpanti, yathāvā caturbhūtaguṇā ākāśaṃ na samavayante tādṛgevaitat |
pra -18 - || bhakteṣu kovā bhakto viśiṣyate ?
u || yaḥ khalu svātmānameva bhagavati svamahimni svarūpe samarpayati, sa eva viśiṣṭo bhaktimatsu | ātmacintātiriktānātmacintāyāḥ kiñcidapyantaramapradāyātmaniṣṭhātatparataiva bhagavati svātmasamarpaṇaṃ nāma | bhagavati samarpitaṃ sarvamapi bharanyāsaṃ sa ca saṃvahati | pārameśvarī kācanaśaktiḥ kāryajātaṃ sarvaṃ nirvahati | tatra bharanyāsapurassaraṃ tadadhīnatāsthitiṃ vihāya "evaṃ kartavyaṃ, manevaṃ kartavyaṃ" ityevaṃ nassantatacintayākiṃ ? dhūmaśakaṭe sakalabhāravāhini jñātesati tadārūhyagacchadbhirasmābhissvakīyamalpamapimūtaṃ tatraiva prakṣipya sukhenāvasthātumaśaknuvadbhistanmūta tatrāpi svaśirasi samudūhya kimarthaṃ duḥkhamanubhoktavyaṃ ?
pra - 19. || vairāgyaṃ nāma kiṃ ?
u || sarveṣāmapi saṅkalpānāmutpattisthānaevā:':'tya
--
11.
--
ntikavināśasaṃpādanameva vairāgyaṃ bhavati | jaladhijaṭharagataṃ muktāphalaṃgṛhītuṃ, kaṭitaṭe kimapi śilākhaṇḍaṃ samābaddhya, jaladhijaṭharamanupraviśya, yathā loke tadupalabhyate, tathā mumukṣavopi vairāgyādisādhanasaṃpattyā svayameva svāntaramanupraviśya svātmamuktāphalamupalabheran |
pra - 20 || īśvareṇa guruṇā jīvā mocayituṃ śakyante vā ?
u || īśvaro guruśca mokṣopayogamārgapradarśakāveva | na khalu svayameva jīvānmokṣaṃ prāpayataḥ | īśvaro guruśca na parasparaṃ vastuto bhinnau | vyāghramukhapatitaṃ prāṇijātaṃ yathā nirjīvaṃ bhavati, tathā:':'cāryānugrahadṛṣṭinipatitassarvopiprāṇī, nirjīvā mṛtibhāvasaṃpādanena saṃrakṣyata eva, na sajīvaṃ parityakṣyate | sarvopi jīvassvena pauruṣeṇa prayatnena sarveśvareṇa guruṇāvā saṃdarśite samyagdarśanmārge sāvadhānatayā pravṛttiṃ saṃpādya muktiṃ prāptumarhati | svena jñānacakṣuṣā svamātmānaṃ svenaiva jñātuṃ śakyate | na hi rāmassvamātmānaṃ rāma iti jñātumādarśamanyamapekṣate |
pra - 21 || muktikāmasya puṃsaḥ (prapañca) tatvavicāropyāvaśyako vā ?
--
12.
--
yathā dūrataḥ parityājyasyāvakaranikarasya viparighaṭṭanena na kimapi prayojanaṃ dṛśyate, tathā svātmānaṃ vividiṣurapi pumān svātmasvarūpavārakānīmāni tatvāni dūrato:'parityajya tāni kiyanti, teṣāṃ guṇāśca kīdṛśa iti teṣāṃ parigaṇanenavā vicāreṇa na kimapi phalamasti | ataśca prapañcassarvopi svapnasamānasvabhāva iti mumukṣubhirnirṇetavyaṃ |
pra - 22 || jāgrataḥ , svapnasya ca parasparaṃ bhedo na kiṃ ?
u || jāgraddīrghakālaṃ , svapnaḥ kṣaṇika iti dīrghatva-kṣaṇikatvabhedaṃ vinā nānyo bhedosti | jāgratijātā vyavahārā yathā satyāḥ prakāśante, tathaiva svapne:'nubhūyamānāssarve vyavahārāśca tatkāle satyā ssaṃdṛśyante | kintu svapne jāgraddehabhinnaṃ dehaṃ manogṛhṇāti | jāgratsvapnayordvayorapi vijñānāni, jñeyanāmarūpāṇi ca yugapadāvirbhavanti |
pra - 23 || mumukṣūṇāṃ śāstrapaṭhanena kimapi prayojanamasti vā ?
u || śāstreṣu muktiprāptaye manonigrahasyaivopāyatayopadeśena, "teṣāṃ manonigrahopāyapradarśana eva paramaṃ tātparya" miti siddhāntatatve (gurumukhāt) avagate sati bahuśāstrābhyāsa pariśrameṇa na kiñcidasti prayojanaṃ | svamanonigrahārthaṃ
--
13.
--
svayamevasvasminsvātmānaṃ "koha"miti vicāraṃ vihāya, kathaṃ bahuśāstravicāreṇa manonigrahassulabhaṃ bhavati ? | svaṃsvenajñānacakṣuṣā svasminsvayamevahyavagantavyaṃ | svaṃ ca pañcakośāntaravabhāsate | śāstragranthāśca pañcakośabāhyasthā bhavanti | tasmātpañcakośānapi "netinetīti" niṣidhyānveṣṭavyassvātmā śāstreṣvaneṣaṇena kathaṃ jñātuṃ śakyate ? | ataśśāstracarcāvṛthaiva | abhyastamakhilaṃ śāstramapi kasmiṃścitkālaviśeṣe vismaraṇīyatāmiyādeva |
pra - 24. || kiṃ sukhaṃ ?
u || ātmasvarūpameva sukhaṃ bhavati | sukhasyātmasvarūpasya ca bhedo nāsti | prapañcavastuṣu kasmiṃścidapi nāsti sukhaleśopi | tebhyassukhaṃ bhavatīti vayamavivekādavagacchāmaḥ | mana ātmano bahirāgamanakāle duḥkhamanubhavati | asmanmanoratha paripūrtisamayeṣu sarveṣvapyasmākaṃ manassvayathāsthānaṃ prāpyaivātmasukhamevānubhavati | evameva suṣupti-samādhi-mūrchāsu, iṣṭaprāptisamaye, aniṣṭavastuviyogakṣaṇe ca mana antarmukhaṃ sadātmasukhamevānubhavati | evaṃ manaḥ ātmanobahirātmani ca gamanāgamanekurvadaviśrāntaṃ bhramati | tarorādhastācchā
--
14.
--
yā sukhakārī bhavati | tarorbahiḥ pradeśe bhānorūṣmā duḥkhakaro bhavati | bahissañcārī pathikaḥ kaścicchāyāmāśritya śītalībhavati | evaṃ kṣaṇaṃ sthitvā bahirgatvā sūryoṣmaṇā pariśrāntaḥ punarapi tarucchāyāṃ prāpya sukhamanubhavati | evaṃ chāyātaḥ bahirgacchan, bāhyācchāyāmāgacchan pathiko vartate | ayamevaṃ kurvāṇa evāvivekīti gīyate | vivekītu chāyāṃ parityajya bahireva na gacchet | evameva jñānino manopi brahma kadācidapi na parityajati | ajñānināṃ manastu bāhyaprapañce bhrāmaṃ bhrāmaṃ duḥkhamanubhūya, kṣaṇakālaṃ brahmaprāpya sukhaṃcānubhavati | mana eva jagat | jagati tirohite vismṛtiṃ prāpite manassvānandamanubhavati | a-tirohite (bhāti) jagati mano duḥkhamanubhavati |
pra - 25. || jñānadṛṣṭirityetatkiṃ ?
u || tūṣṇīṃ sthitireva "jñānadṛṣṭi"riti vyavahāraḥ | manasassvātmani pravilāpanameva tūṣṇīṃ bhāvāvasthā | evaṃ sthitirevajñānadṛṣṭirityucyate | anyābhiprāyābhijñatā, trikālajñātṛtvaṃ, dūradeśa padārthagrahaṇamityevamādayo na jñānadṛṣṭi-pada-vyapadeśā bhavitumarhanti |
pra - 26. || nirāśāyā jñānasyaca kassaṃbaṃdhaḥ ?
--
15.
--
nirāśaivajñānaṃ | nirāśā:'nyā, jñānaṃcānyaditi na bhavati | etaddvayamapi vastuta ekameva | ātmanonyatra manaso:'pravṛttireva nirāśeti nirucyate | ātmano:'nyasya kasyacidapratibhāsa eva jñānamiti vyapadiśyate | anyatrā:'pravṛttirvairāgyamathavā nirāśā bhavati | svasvarūpāparityāga eva jñānaṃ |
pra - 27. || vicārasya dhyānasya ca ko bhedaḥ ?
u || svātmani manaso dhāraṇameva vicāraḥ | svātmanaḥ brahmeti, saccidānandamiti ca nirantara bhāvanaṃ dhyānaṃ bhavati |
pra - 28. || muktiḥ kā ?
u || baddhaḥ, ahaṃ ka iti vicāreṇa svayathārthasvarūpaṃ viditvā tanniṣṭhataiva muktiḥ ||
________________________
||śubhamastu ||
||śrīramaṇārpaṇamastu||
_________________________
vi.jagadīśvaraśāstrī ||
8-10-41.
om̐