शनिवार, 21 फ़रवरी 2026

The Silent Presence.

ரமண ஸந்நிதி மூழை

உள்ளது நாழபநு 

अद्वैतविचारः 

--

'सत् एव सोम्य इदं अग्र आसीत् '

'सर्वं खलु इदं ब्रह्म'

'पुरुषः एव इदं सर्वं यत् भूतं यत् च भव्यम्'

इत्यादि-वचनैः इदं सर्वं इति निर्दिष्टस्य अस्य जगतः सत्-शब्दवाच्यः ब्रह्म-अपर पर्यायः पुरुषः एव उपादान कारण-आख्यं मूलद्रव्यं भवति इति सिद्धम्।

तथा च, तत् ऐक्षत सः तपः अतप्यत इत्यादि वाक्यैः तपसा जगतः निष्पत्तौ सिद्धायां तस्य एव सर्व - निमित्त - कारणत्वं प्रतिपादितं भवति। एवं सर्वस्य अस्य मूलतः परिकरतः च सर्वा कारण - सामग्री तस्मिन् एकस्मिन् अद्वितीये ब्रह्मणि द्रष्टव्या।।

तथा सति, इदं अहं भाव आश्रययोः बाह्य आभ्यन्तरयोः जड चेतन पदवाच्ययोः जगत्-जीवयोः इतर इतर आश्रयत्वात् अन्वेषणीय मूल स्वभावयोः सत् एक पुरुषत्वेन अनयोः इतर इतर आश्रयत्व उपपत्तिः उपगम्या भवति।

कथं? एकस्य एव सतः नानारूपत्व श्रवणात् जगत् जीव उभय विधत्वं अपि तपतः ईक्षितुः कामयितुः वा पुरुषस्य अपारशक्ति-पदवाच्यः तपः प्रभाव-आयत्तं वक्तव्यम्।। 

ईक्षण आख्यस्य तपसा जगत् जीव विसृष्टि-निमित्त-भूतस्य चित्- शक्ति रूपत्वात् एकस्य एव ईक्षतृ-ईक्षितव्यत्वेन परिणाम पद व्यवहार्यं अविभाज्य उभयरूपत्वं सम्पद्यते । ब्रह्मणः परिणामाभ्युपगमे दुग्धस्य दध्नि इव विनष्टिशङ्का मा भूत इति सुवर्णस्य भूषणभेदेषु इव सद्वस्तु स्वरूपस्य जगत् जीव भेदेषु स्तथिरत्व आमनन्ति  छन्दोगाः।

सतः पुरुषस्य निरवधिक उपचीयमानविभवेन ईक्षण-आख्येन तपसा असंख्य-अंशेषु नानालोक नानाजीवभावेन अभिव्यक्तेषु सर्वत्र स्वरूप-एकत्वं न बाधितं भवति।

नाना भावत्वे अपि एक-स्वरूपत्वं एक-स्वरूपत्वे अपि नाना भाव अवस्थितत्वं च अवगन्तव्ये।

तस्मात् 'आत्मा एव इदं सर्वं', 'इदं सर्वं तत्-सत्यं स आत्मा', 'आत्मा एव सर्वाणि भूतानि अभूत्' इति एवं जातीयकैः वाक्यैः स्वभावात् अखण्डस्वरूपः एकः एव पुरुषः प्रभावात् अनेकः जगत्-जीव-प्रकार-लक्षणः लक्ष्यते इति अवगम्यते।

यहाँ उपरोक्त अंश भारद्वाज कपाली विरचित सद्दर्शनम्-भाष्य की भूमिका से लिए गए हैं। मूूलतः संस्कृत सद्दर्शनम् ग्रन्थ की रचना भारद्वाज कपाली शास्त्री के गुरु आचार्य वसिष्ठ गणपति शास्त्री ने की, और यह संस्कृत ग्रन्थ भगवान् श्री रमण महर्षि की मूल तमिष् रचना :

उळ्ळदु नाऱपदु /  உள்ளது நாழபநு

का संस्कृत अनुवाद था।

अंग्रेजी भाषा में इस ग्रन्थ को 

"Forty Verses On Reality"

शीर्षक से प्रकाशित किया गया था।

अंग्रेजी भाषा में ही इसका एक अनुवाद और प्रस्तुतीकरण

"Truth Revealed" / सद्-विद्या इस शीर्षक से भी है। संस्कृत सद्दर्शनम् में दो श्लोक इस प्रकार से है -

सत्यश्चिदात्मा विविधाकृतिश्चित्

सिद्ध्येत् पृथक् सत्यचितोः न भिन्ना।

भूषाविकाराः किमु सन्ति सत्यं

विना सुवर्णस्य पृथगत्र लोके।।

Few months ago I started writing this post with a view to post here this whole Sanskrit text. It seems somehow was left incomplete till now. 

 A couple of days ago, a friend from Tiruvannamalai

contacted me and asked me view :

"What in my opinion, would be the proper Hindi word for translating the English Title:

"Silent Presence"

During our conversation I told him what comes to my mind is of something about a Tamil Text that I had heard some 15-20 years ago :

Sri Ramana Sannidhi Murai.

At that time I didn't notice what might be the exact meaning of this Tamil word,

But now I think, it is somewhat similar to the Sanskrit word  : मूलं / मूलम्,

Meaning : The Essence / Origin, while "Sannidhi" is synonyms with proximity.

Then I suggested to him :

"मौन-विद्यमानता"

Seems to me to be perhaps a near about translation in the Hindi.

Our conversation was this much only.

Hope this is relevant and fit to be shared herewith as a post in this blog.

You can see the Title in Tamil.

Please note that I'm not well conversant with Tamil, so if you find something here needs to be corrected, please do correct / point out to me the right Tamil Words.

The Sanskrit text reproduced / presented here is from the सद्दर्शनं भाष्यं of the same Tamil Text, translated by Sri Kapali Bharadwaja Sastri / कपाली भारद्वाज शास्त्री.

।।ॐ नमो भगवते श्री रमणाय।।

श्रीरमणार्पणमस्तु

***









कोई टिप्पणी नहीं: